|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.28. अध्यायः 028
Mahabharata - Adi Parva - Chapter Topics
अमृताहरणार्थं गच्छतो गरुडस्य मक्ष्ययाचनम्॥ 1 ॥ ब्राह्मणवर्जं समुद्रकुक्षिस्थनिषादभक्षणे विनताया अनुज्ञा॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-28-0x(109)(1413)
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्।
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥ 1-28-1(1414)
विनतोवाच। 1-28-2x(110)
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्।
`भवनानि निषादानां तत्र सन्ति द्विजोत्तम॥ 1-28-2(1415)
पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम्'।
निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय॥ 1-28-3(1416)
न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥ 1-28-4(1417)
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः।
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥ 1-28-5(1418)
एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः।
स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥ 1-28-6(1419)
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन।
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ॥ 1-28-7(1420)
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः।
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्॥ 1-28-8(1421)
भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः। 1-28-9(1422)
गरुड उवाच।
किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः॥ 1-28-9x(111)
किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः।
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः॥ 1-28-10(1423)
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि। 1-28-11(1424)
विनतोवाच।
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा॥ 1-28-11x(112)
दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम्।
विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा॥ 1-28-12(1425)
प्रोवाच चैन विनता पुत्रहार्दादिदं वचः।
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्॥ 1-28-13(1426)
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः।
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा॥ 1-28-14(1427)
प्रीता परमदुःखार्ता नागैर्विप्रकृता सती। 1-28-15(1428)
विनतोवाच।
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः॥ 1-28-15x(113)
शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्।
`विष्णुः सर्वगतः सर्वमह्गानि तव चैव ह।'
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा॥ 1-28-16(1429)
इहासीना भविष्यामि स्वस्तिकारे रता सदा।
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये॥ 1-28-17(1430)
सौतिरुवाच। 1-28-18x(114)
ततः स मातुर्वचनं निशम्य
वितत्य पक्षौ नभ उत्पपात।
ततो निषादान्बलवानुपागतो
बुभुक्षितः काल इवान्तकोऽपरः॥ 1-28-18(1431)
स तान्निषादानुपसंहरंस्तदा
रजः समुद्धूय नभःस्पृशं महत्।
समुद्रकुक्षौ च विशोषयन्पयः
समीपजान्भूधरजान्विचालयन्॥ 1-28-19(1432)
ततः स चक्रे महदाननं तदा
निषादमार्गं प्रतिरुध्य पक्षिराट्।
ततो निषादास्त्वरिताः प्रवव्रजु-
र्यतो मुखं तस्य भुजंगभोजिनः॥ 1-28-20(1433)
तदाननं विवृतमतिप्रमाणव-
त्समभ्ययुर्गगनमिवार्दिताः खगाः।
सहस्रशः पवनजोविमोहिता
यथा।ञनिलप्रचलितपादपे वने॥ 1-28-21(1434)
ततः खगो वदनममित्रतापनः
समाहरत्परिचपलो मत्बलाः।
निषूदयन्बहुविधमत्स्यजीविनो
बभुक्षितो गगनचरेश्वरस्तदा॥ ॥ 1-28-22(1435)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टाविंशोऽध्यायः॥ 28 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-28-18 काले समये॥ 1-28-19 भूधरजान् पर्वतजान्वृक्षान्॥ 1-28-22 परिचपलः तेषां ग्रहणाय सर्वतो भ्रमन्॥ अष्टाविंशोऽध्यायः॥ 28 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|